(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.186. अध्यायः 186
Mahabharata - Adi Parva - Chapter Topics
अर्धरात्रे पाण्डवानां गङ्गातीरगमनम्॥ 1 ॥ तत्र स्त्रीभिः सह जलक्रीडां कुर्वता चित्ररथेन गन्धर्वेण सह अर्जुनस्य युद्धम्॥ 2 ॥ आग्नेयास्त्रेण दग्धादधःपतितस्य तस्यार्जुनेन ग्रहणं॥ 3 ॥ गन्धर्वपत्न्या प्रार्थितस्य युधिष्ठिरस्याज्ञया गन्धर्वमोचनम्॥ 4 ॥ गन्धर्वप्रार्थनया आग्नेयास्त्रपरिवर्तनेन तस्माद्गान्धर्वास्त्रग्रहणानुमोदनम्॥ 5 ॥ गन्धर्वेण पाण्डवानां पुरोहितसंपादनोपदेशः॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-186-0x(1059)(8300)
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः।
समैरुदङ्मुकैर्मार्गैर्यथोद्दिष्टं च भारत॥ 1-186-1(8301)
अहोरात्रेणाभ्यगच्छन्पाञ्चालनगरं प्रति।
अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति॥ 1-186-2(8302)
चन्द्रास्तमयवेलायामर्धरात्रसमागमे।
वारि चैवानुमज्जन्तस्तीर्थं सोमाश्रयायणम्। 1-186-3(8303)
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः॥
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः। 1-186-4(8304)
प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः॥
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः। 1-186-5(8305)
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्।
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली॥ 1-186-6(8306)
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान्।
विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत्॥ 1-186-7(8307)
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या।
अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते॥ 1-186-8(8308)
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्।
शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम्॥ 1-186-9(8309)
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्।
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्॥ 1-186-10(8310)
अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः।
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि॥ 1-186-11(8311)
आराच्च तिष्ठतास्माकं समीपं नोपसर्पत।
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्॥ 1-186-12(8312)
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्।
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा॥ 1-186-13(8313)
अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम।
अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम्॥ 1-186-14(8314)
न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः।
कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ॥ 1-186-15(8315)
अर्जुन उवाच। 1-186-16x(1060)
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते।
रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः॥ 1-186-16(8316)
भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर।
न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वरां॥ 1-186-17(8317)
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम।
अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः॥ 1-186-18(8318)
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता।
गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत॥ 1-186-19(8319)
गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम्।
रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा॥ 1-186-20(8320)
अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये।
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः॥ 1-186-21(8321)
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्।
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः।
गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत्॥ 1-186-22(8322)
असम्बाधा देवनदी स्वर्गसंपादनी शुभा।
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः॥ 1-186-23(8323)
अनिवार्यमसम्बाधं तव वाचा कथं वयम्।
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्॥ 1-186-24(8324)
वैशम्पायन उवाच। 1-186-25x(1061)
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनाम्य कार्मुकम्।
मुमोच बाणान्निशितानहीनाशीविषानिव॥ 1-186-25(8325)
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम्।
व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः॥ 1-186-26(8326)
अर्जुन उवाच। 1-186-27x(1062)
बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते।
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते॥ 1-186-27(8327)
मानुषानति गन्धर्वान्सर्वान् गन्धर्व लक्षये।
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया॥ 1-186-28(8328)
पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः।
भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः॥ 1-186-29(8329)
भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम।
साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः॥ 1-186-30(8330)
वैशम्पायन उवाच। 1-186-31x(1063)
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह।
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्॥ 1-186-31(8331)
विरथं विप्लुतं तं तु स गन्धऱ्वं महाबलः।
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम्॥ 1-186-32(8332)
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः।
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्॥ 1-186-33(8333)
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी।
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती॥ 1-186-34(8334)
गन्धर्व्युवाच। 1-186-35x(1064)
त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे।
गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो॥ 1-186-35(8335)
युधिष्ठिर उवाच। 1-186-36x(1065)
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्।
को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन॥ 1-186-36(8336)
अर्जुन उवाच। 1-186-37x(1066)
जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः।
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः॥ 1-186-37(8337)
गन्धर्व उवाच। 1-186-38x(1067)
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्।
यशोहीनं न च श्लाघ्यं स्वं नाम जनसंसदि॥ 1-186-38(8338)
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्।
गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम्॥ 1-186-39(8339)
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः।
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं॥ 1-186-40(8340)
संभृता चैव विद्येयं तपसेह मया पुरा।
निवेदयिष्ये तामद्य प्राणदाय महात्मने॥ 1-186-41(8341)
संस्तम्भयित्वा तरसा जितं शरणमागतम्।
यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति॥ 1-186-42(8342)
चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः।
ददौ स विश्वावसवे मम विश्वावसुर्ददौ॥ 1-186-43(8343)
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति।
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे॥ 1-186-44(8344)
यच्चक्षुषा द्रष्टुमिच्छेत्रिषु लोकेषु किंचन।
तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति॥ 1-186-45(8345)
एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम्।
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते॥ 1-186-46(8346)
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः।
अविशिष्टाश्च देवानामनुभावप्रदर्शिनः॥ 1-186-47(8347)
गन्धर्वजानामश्वानामहं पुरुषसत्तम।
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं॥ 1-186-48(8348)
देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः।
क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः॥ 1-186-49(8349)
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम्।
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि॥ 1-186-50(8350)
ततो भागीकृतो देवैर्वज्रभाग उपास्यते।
लोके यशोधनं किंचित्सैव वज्रतनुः स्मृता॥ 1-186-51(8351)
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम्।
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः॥ 1-186-52(8352)
क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः।
रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः॥ 1-186-53(8353)
कामवर्णाः कामजवाः कामतः समुपस्थिताः।
इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः॥ 1-186-54(8354)
अर्जुन उवाच। 1-186-55x(1068)
यदि प्रीतेन मे दत्तं संशये जीवितस्य वा।
विद्याधं श्रुतं वाऽपि न तद्गन्धर्व रोचये॥ 1-186-55(8355)
गन्धर्व उवाच। 1-186-56x(1069)
संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते।
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते॥ 1-186-56(8356)
त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्।
तथैव योग्यं बीभत्सो चिराय मरतर्षभ॥ 1-186-57(8357)
अर्जुन उवाच। 1-186-58x(1070)
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ।
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत्॥ 1-186-58(8358)
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः।
यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः॥ 1-186-59(8359)
गन्धर्व उवाच। 1-186-60x(1071)
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः।
यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः॥ 1-186-60(8360)
`यक्षराक्षसगन्धर्वपिशाचपतगोरगाः।
धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान्॥ 1-186-61(8361)
जानतापि मया तस्मात्तेजश्चाभिजनं च वः।
इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः॥ 1-186-62(8362)
को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ।
स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम्'॥ 1-186-63(8363)
यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः।
विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते॥ 1-186-64(8364)
नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम्।
गुणान्कथयतां वीर पूर्वेषां तव धीमताम्॥ 1-186-65(8365)
स्वयं चापि मया दृष्टश्चरता सागराम्बराम्।
इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते॥ 1-186-66(8366)
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन।
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्॥ 1-186-67(8367)
`सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम्।
द्रोणमिष्वस्त्रकुशलं धनुष्यह्गिरसां वरम्॥' 1-186-68(8368)
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा।
पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान्।
पितॄनेतानहं पार्थ देवमानुषसत्तमान्॥ 1-186-69(8369)
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः।
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः॥ 1-186-70(8370)
उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम्।
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्॥ 1-186-71(8371)
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति।
धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः॥ 1-186-72(8372)
नक्तं च बलमस्माकं भूय एवाभिवर्धते।
यतस्ततो मां कौन्तेय सदारं मन्युराविशत्॥ 1-186-73(8373)
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन।
येन तेनेह विधिना कीर्त्यमानं निबोध मे॥ 1-186-74(8374)
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि।
यस्मात्तस्मादहं पार्थ रणे।ञस्मि विजितस्त्वया॥ 1-186-75(8375)
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप।
नक्तं च युधि युध्येत न स जीवेत्कथंचन॥ 1-186-76(8376)
यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः।
जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः॥ 1-186-77(8377)
तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम्।
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः॥ 1-186-78(8378)
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः।
धर्मात्यागः कृतात्मानः स्युर्नृपाणां पुरोहिताः॥ 1-186-79(8379)
जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम्।
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः॥ 1-186-80(8380)
लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम्।
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्॥ 1-186-81(8381)
पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः।
प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम्॥ 1-186-82(8382)
न हि केवलशौर्येण तापत्याभिजनेन च।
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित्॥ 1-186-83(8383)
तस्मादेवं विजानीहि कुरूणां वंशवर्धन।
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्॥ ॥ 1-186-84(8384)

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि षडशीत्यधिकशततमोऽध्यायः॥ 186 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-186-3 सोमाश्रयश्चन्द्रधरो रुद्रस्तस्य स्थानं सोमाश्रयायणम्॥ 1-186-8 पूर्वरात्रागमेषु पश्चिमायां दिशि अर्धास्तमितार्कमण्डलरूपा या संध्या संरज्यते रक्ता भवति तस्यां मुहूर्तं प्रस्थानकालमशीतिभिर्लवैर्निमेषार्धैर्हीनं प्रचक्षते॥ 1-186-9 तदेव मुहूर्तं यक्षादीनां कर्मचारेषु विहितमन्यन्मनुष्याणां कर्मचारेषु स्मृतमित्यन्वयः। संध्यायामशीतिलवोपरि रात्रौ यक्षादीनामेव संचारकालः अन्यदहर्मनुष्याणामित्यर्थः॥ 1-186-15 शृङ्गिणः अभिचारिकाः॥ 1-186-21 एकवप्रा एकमाकाशरूपं वप्रं यस्याः सा॥ 1-186-36 स्त्री नाथो रक्षिता यस्य तम्॥ 1-186-38 अङ्गारवद्भास्वरं दुःस्पर्शं च पर्णं वाहनं रथो यस्य सोऽङ्गारपर्णस्तस्य भावस्तत्ताम्॥ 1-186-41 क्षीणाश्चाऽक्षीणाश्च क्षीणाक्षीणाः वृद्धास्तरुणा वा एते न भवन्ति रंहसो वेगाच्च न हीयन्ते इति नकारानुषङ्गेण योज्यम्। क्षीणे क्षीणे इति घ. पाठः॥ 1-186-51 तस्य भागः पृथग्भूतः सर्वैर्भूतैदपास्यते इति ङ. पाठः॥ 1-186-52 वज्रपाणिः पाणिः वज्रं यस्य स। एवमेव वज्ररथमित्यपि॥ 1-186-53 रथाङ्गं च तथा सूतो धनुश्च भरतर्षभ इति ङ. पाठः॥ 1-186-57 तथैव सख्यं बीभत्सो इति ङ. पाठः॥ 1-186-58 अस्त्रेणास्त्रं वृणे त्वत्तः यद्भयं त्यजेत् इति ङ. पाठः॥ 1-186-60 अनग्नयो दारहीनत्वात्। अनाहुतयः समावृतत्वात्। आश्रमविंशेषहीनो ब्राह्मणो धर्षणीय इत्यर्थः॥ 1-186-76 कायवृद्यः कृतदारः॥ 1-186-81 लाभं लब्धव्यं धनं। अलब्धस्य च लाभाय लब्धस्य परिरक्षणे इति ङ. पाठः॥ षडशीत्यधिकशततमोऽध्यायः॥ 186 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.